Skip to main content

Posts

Showing posts with the label श्री काली कवचम्

श्री काली जगन्मंगल कवचम्

श्री काली जगन्मंगल कवचम् ।।श्री दक्षिणाकाली प्रसन्नोस्तु।। . श्री काली जगन्मंगल कवचम्  श्री भैरव्युवाच काली पूजा श्रुता नाथ भावाश्च विविधाः प्रभो ।  इदानीं श्रोतु मिच्छामि कवचं पूर्व सूचितम् ॥  त्वमेव शरणं नाथ त्राहि माम् दुःख संकटात् ।  सर्व दुःख प्रशमनं सर्व पाप प्रणाशनम् ॥  सर्व सिद्धि प्रदं पुण्यं कवचं परमाद्भुतम् ।  अतो वै श्रोतुमिच्छामि वद मे करुणानिधे ॥ भैरवउवाच रहस्यं श्रृणु वक्ष्यामि भैरवि प्राण वल्लभे ।  श्री जगन्मङ्गलं नाम कवचं मंत्र विग्रहम् ॥  पाठयित्वा धारयित्वा च त्रौलोक्यं मोहयेत्क्षणात् ।  नारायणोऽपि यद्धृत्वा नारी भूत्वा महेश्वरम् ॥  योगिनं क्षोभमनयत् यद्धृत्वा च रघूत्तमः।  वर तृप्तो जघानैव रावणादि निशाचरान् ॥  यस्य प्रसादादीशोऽहं ्रैलोक्य विजयी प्रभुः ।  धनाधिपः कुबेरोऽपि सुरेशोऽभूच्छचीपतिः ।  एवं हि सकला देवाः सर्वसिद्धिश्वराः प्रिये ॥ विनियोग:- ॐ श्री जगन्मङ्गलस्यास्य कवचस्य ऋषिः शिवः ।  छ्न्दोऽनुष्टुप् देवता च कालिका दक्षिणेरिता ॥  जगतां मोहने दुष्ट विजये भुक्तिमुक्तिषु ।  योषिदाकर...