Skip to main content

श्री स्वर्णाकर्षण भैरव मंत्र विधान

#स्वर्णाकर्षणभैरवस्तोत्रनामावलिः।।
                  (अष्टोत्तर शतनामावली स्तोत्र)
ॐ अस्यश्रीस्वर्णाकर्षणभैरव स्तोत्रमन्त्रस्य ब्रह्मऋषिः अनुष्टुप् छन्दः श्रीस्वर्णाकर्षण भैरवदेवता ह्रीं बीजं क्लीं शक्तिः सः कीलकं मम दारिद्र्यनाशार्थे पाठ विनियोगः ।

ऋष्यादिन्यासः -
ब्रह्मर्षये नमः शिरसि ।
अनुष्टुप्छन्दसे नमः मुखे ।
स्वर्णाकर्षणभैरवाय नमः हृदि ।
ह्रीं बीजाय नमः गुह्ये ।
क्लीं शक्तये नमः पादयोः ।
सः कीलकाय नमः नाभौ ।
विनियोगाय नमः सर्वाङ्गे ।
ह्रां ह्रीं ह्रूं इति कर षडङ्गन्यासः ॥

अथ ध्यानम् -
पारिजात द्रुम कान्तारे स्थिते माणिक्यमण्डपे ।
सिंहासन गतं वन्दे भैरवं स्वर्णदायकम् ॥
गाङ्गेयपात्रं डमरूं त्रिशूलं वरं करः सन्दधतं त्रिनेत्रं ।
देव्यायुतं तप्तस्वर्णवर्ण स्वर्णाकर्षणभैरवमाश्रयामि॥

मन्त्रः -
ॐ ऐं ह्रीं श्रीं ऐं श्रीं आपदुद्धारणाय ह्रां ह्रीं ह्रूं
अजामलवद्धाय लोकेश्वराय स्वर्णाकर्षणभैरवाय
मम दारिद्र्यविद्वेषणाय महाभैरवाय नमः श्रीं ह्रीं ऐम् ॥

अथ नामावलिः ।
ॐ भैरवेशाय नमः ।
ॐ ब्रह्मविष्णुशिवात्मने नमः ।
ॐ त्रैलोक्यवन्धाय नमः ।
ॐ वरदाय नमः ।
ॐ वरात्मने नमः ।
ॐ रत्नसिंहासनस्थाय नमः ।
ॐ दिव्याभरणशोभिने नमः ।
ॐ दिव्यमाल्यविभूषाय नमः ।
ॐ दिव्यमूर्तये नमः ।
ॐ अनेकहस्ताय नमः ।
ॐ अनेकशिरसे नमः ।
ॐ अनेकनेत्राय नमः ।
ॐ अनेकविभवे नमः ।
ॐ अनेककण्ठाय नमः ।
ॐ अनेकांसाय नमः ।
ॐ अनेकपार्श्वाय नमः ।
ॐ दिव्यतेजसे नमः ।
ॐ अनेकायुधयुक्ताय नमः ।
ॐ अनेकसुरसेविने नमः ।
ॐ अनेकगुणयुक्ताय नमः । २०

ॐ महादेवाय नमः ।
ॐ दारिद्र्यकालाय नमः ।
ॐ महासम्पद्प्रदायिने नमः ।
ॐ श्रीभैरवीसंयुक्ताय नमः ।
ॐ त्रिलोकेशाय नमः ।
ॐ दिगम्बराय नमः ।
ॐ दिव्याङ्गाय नमः ।
ॐ दैत्यकालाय नमः ।
ॐ पापकालाय नमः ।
ॐ सर्वज्ञाय नमः ।
ॐ दिव्यचक्षुषे नमः ।
ॐ अजिताय नमः ।
ॐ जितमित्राय नमः ।
ॐ रुद्ररूपाय नमः ।
ॐ महावीराय नमः ।
ॐ अनन्तवीर्याय नमः ।
ॐ महाघोराय नमः ।
ॐ घोरघोराय नमः ।
ॐ विश्वघोराय नमः ।
ॐ उग्राय नमः । ४०

ॐ शान्ताय नमः ।
ॐ भक्तानां शान्तिदायिने नमः ।
ॐ सर्वलोकानां गुरवे नमः ।
ॐ प्रणवरूपिणे नमः ।
ॐ वाग्भवाख्याय नमः ।
ॐ दीर्घकामाय नमः ।
ॐ कामराजाय नमः ।
ॐ योषितकामाय नमः ।
ॐ दीर्घमायास्वरूपाय नमः ।
ॐ महामायाय नमः ।
ॐ सृष्टिमायास्वरूपाय नमः ।
ॐ निसर्गसमयाय नमः ।
ॐ सुरलोकसुपूज्याय नमः ।
ॐ आपदुद्धारणभैरवाय नमः ।
ॐ महादारिद्र्यनाशिने नमः ।
ॐ उन्मूलने कर्मठाय नमः ।
ॐ अलक्ष्म्याः सर्वदा नमः ।
ॐ अजामलवद्धाय नमः ।
ॐ लोकेश्वराय नमः ।
ॐ स्वर्णाकर्षणशीलाय नमः । ६०

ॐ दारिद्र्य विद्वेषणाय नमः ।
ॐ लक्ष्याय नमः ।
ॐ लोकत्रयेशाय नमः ।
ॐ स्वानन्दं निहिताय नमः ।
ॐ श्रीबीजरूपाय नमः ।
ॐ सर्वकामप्रदायिने नमः ।
ॐ महाभैरवाय नमः ।
ॐ धनाध्यक्षाय नमः ।
ॐ शरण्याय नमः ।
ॐ प्रसन्नाय नमः ।
ॐ आदिदेवाय नमः ।
ॐ मन्त्ररूपाय नमः ।
ॐ मन्त्ररूपिणे नमः ।
ॐ स्वर्णरूपाय नमः ।
ॐ सुवर्णाय नमः ।
ॐ सुवर्णवर्णाय नमः ।
ॐ महापुण्याय नमः ।
ॐ शुद्धाय नमः ।
ॐ बुद्धाय नमः ।
ॐ संसारतारिणे नमः । ८०

ॐ देवाय नमः ।
ॐ गुह्याय नमः ।
ॐ प्रचलाय नमः ।
ॐ बालरूपाय नमः ।
ॐ परेषां बलनाशिने नमः ।
ॐ स्वर्णसंस्थाय नमः ।
ॐ भूतलवासिने नमः ।
ॐ पातालवासाय नमः ।
ॐ अनाधाराय नमः ।
ॐ शान्ताय नमः ।
ॐ अनन्ताय नमः ।
ॐ द्विभुजाय नमः ।
ॐ भुजत्रयसुशोभिने नमः ।
ॐ अनमादि सिद्धाय नमः ।
ॐ स्वर्णहस्ताय नमः ।
ॐ पूर्णचन्द्रप्रतीकाशाय नमः ।
ॐ वदनाम्भोजशोभिने नमः ।
ॐ स्वरूपाय नमः ।
ॐ स्वर्णालङ्कारशोभिने नमः ।
ॐ स्वर्णाकर्षणाय नमः । १००

ॐ स्वर्णाभाय नमः ।
ॐ स्वर्णकण्ठाय नमः ।
ॐ स्वर्णाभाम्बरधारिणे नमः ।
ॐ स्वर्णसिंहानस्थाय नमः ।
ॐ स्वर्णपादाय नमः ।
ॐ स्वर्णभपादाय नमः ।
ॐ स्वर्णकाञ्चीसुशोभिने नमः ।
ॐ स्वर्णजङ्घाय नमः ।
ॐ भक्तकामदुधात्मने नमः ।
ॐ स्वर्णभक्ताय नमः ।
ॐ कल्पवृक्षस्वरूपिणे नमः ।
ॐ चिन्तामणिस्वरूपाय नमः ।
ॐ ब्रह्मादिसेविने नमः ।
ॐ कल्पद्रुमाघ्ने संस्थाय नमः ।
ॐ बहुस्वर्णप्रदायिने नमः ।
ॐ हेमाकर्षणाय नमः ।
ॐ भैरवाय नमः । ११७

स्तवेनानेन सन्तुष्टो भव लोकेश भैरव ।
पश्य मां करुणादृष्ट्या शरणागतवत्सल ॥

श्री महाभैरवस्येदं स्तोत्रमुक्तं सुदुर्लभम् ।
मन्त्रात्मकं महापुण्यं सर्वेश्वर्यप्रदायकम् ॥

यः पठेन्नित्यमेकाग्रं पातकै स प्रमुच्यते ।
लभते महतीं लक्ष्मीमष्टैश्वर्यमवाप्नुयात् ॥

चिन्तामणिमवाप्नोति धेनु कल्पतरुं ध्रुवम् ।
स्वर्णराशिमवाप्नोति शीघ्नमेव न संशयः ॥

त्रिसन्ध्यं यः पठेत्स्तोत्रं दशावृत्या नरोत्तमः ।
स्वप्ने श्रीभैरवस्तस्य साक्षाद्भूत्वा जगद्गुरुः ॥

स्वर्णराशि ददात्यस्यै तत्क्षणं नात्र संशयः ।
अष्टावृत्या पठेत् यस्तु सन्ध्यायां वा नरोत्तमम् ॥

लभते सकलान् कामान् सप्ताहान्नात्र संशयः ।
सर्वदः यः पठेस्तोत्रं भैरवस्य महात्मनाः ॥

लोकत्रयं वशीकुर्यादचलां लक्ष्मीमवाप्नुयात् ।
न भयं विद्यते क्वापि विषभूतादि सम्भवम् ॥

म्रियते शत्रवस्तस्य अलक्ष्मी नाशमाप्नुयात् ।
अक्षयं लभते सौख्यं सर्वदा मानवोत्तमः ॥

अष्ट पञ्चाद्वर्णाढ्यो मन्त्रराजः प्रकीर्तितः ।
दारिद्र्य दुःखशमनः स्वर्णाकर्षण कारकः ॥

य एन सञ्चयेद्धीमान् स्तोत्रं वा प्रपठेत् सदा ।
महा भैरव सायुज्यं स अन्तकालेलभेद् ध्रुवम् ॥

इति रुद्रयामलतन्त्रे स्वर्णाकर्षणभैरवस्तोत्रमुद्धृता
नामावलिः समाप्ता 

Comments

Popular posts from this blog

श्री काली जगन्मंगल कवचम्

(श्री काली जगन्मंगल कवचम्) ।।श्री दक्षिणाकाली प्रसन्नोस्तु।। . श्री काली जगन्मंगल कवचम् श्री भैरव्युवाच काली पूजा श्रुता नाथ भावाश्च विविधाः प्रभो । इदानीं श्रोतु मिच्छामि कवचं पूर्व सूचितम् ॥ त्वमेव शरणं नाथ त्राहि माम् दुःख संकटात् । सर्व दुःख प्रशमनं सर्व पाप प्रणाशनम् ॥ सर्व सिद्धि प्रदं पुण्यं कवचं परमाद्भुतम् । अतो वै श्रोतुमिच्छामि वद मे करुणानिधे ॥ भैरवउवाच रहस्यं श्रृणु वक्ष्यामि भैरवि प्राण वल्लभे । श्री जगन्मङ्गलं नाम कवचं मंत्र विग्रहम् ॥ पाठयित्वा धारयित्वा च त्रौलोक्यं मोहयेत्क्षणात् । नारायणोऽपि यद्धृत्वा नारी भूत्वा महेश्वरम् ॥ योगिनं क्षोभमनयत् यद्धृत्वा च रघूत्तमः। वर तृप्तो जघानैव रावणादि निशाचरान् ॥ यस्य प्रसादादीशोऽहं ्रैलोक्य विजयी प्रभुः । धनाधिपः कुबेरोऽपि सुरेशोऽभूच्छचीपतिः । एवं हि सकला देवाः सर्वसिद्धिश्वराः प्रिये ॥ विनियोग:- ॐ श्री जगन्मङ्गलस्यास्य कवचस्य ऋषिः शिवः । छ्न्दोऽनुष्टुप् देवता च कालिका दक्षिणेरिता ॥ जगतां मोहने दुष्ट विजये भुक्तिमुक्तिषु । योषिदाकर्षणे चैव विनियोगः प्रकीर्तितः ॥ ऋष्यादि-न्यास:- श्री शिव ऋषये नमःशि...

कुलदेवी एवं कुलदेवता आकर्षण मंत्र

ॐ नमो कामद काली कामक्षा देवी तेरे सुमरे बेडा पार, पढि पढि मारुं गिन गिन फूल, जाहि बुलाई सोई आये, हांक मार हनुमान वीर पकड ला जल्दी, दुहाई तोय सीता सती, अंजनी माता की, मेरा मंत्र सांचा पिण्ड काचा, फुरो मंत्र ईश्वरो वाचा, इस मंत्र का ५१ दिन तक जाप होता है बाबा लंगोटी वाले के मंदिर मे बाबा के सभी यम नियम का पालन होता है ५१ दिन पूरे होने पर 41 वे दिन दशांश हवन एव विशेष पुजा होती है जिसमें आपको कोई आदमी दिखाई दे सकता है ओर कोई ध्वनि भी सुनाई दे सकती है या स्वप्न भी आ सकता है 41 दिन मंत्र जप करने के बाद आप इसका प्रयोग किसी ओर के लिये भी कर सकते है किसी का दोष जानने के लिये.. मेल करें 

संतान प्राप्ति का वरुण मंत्र......

  प्रणाम। इसे सर्वप्रथम महाराजा हरिश्चन्द्र ने सिद्ध किया था। गुरु वशिष्ठ ने यह गुरु मंत्र राजा हरिश्चन्द्र को दिया था। निसंतान हरिश्चन्द्र ने इस मंत्र के जप से पुत्र की प्राप्ति की थी। अनपतयोअस्मि देवेशः पुत्र देहि सुख प्रदम । ऋणत्रय पहारार्थमुद्धमोअयमयाकृत ।। इसका नित्य 108 बार जप करने से संतान अवश्य प्राप्त होती है। आप इस मंत्र से अभिमंत्रित यंत्र हमारे संस्थान से प्राप्त कर सकते है। जिसे बैडरूम में रखने व नित्य दर्शन करने से भी संतान प्राप्त होती हैं।