Skip to main content

कृत्यानाशक_श्रीबगला_सूक्तम्

॥ #कृत्यानाशक_श्रीबगला_सूक्तम् ॥

(अथर्ववेद पंचमकाण्डे षष्टोऽनुवाक)

अथ सूक्तम:-
यां ते चक्रुरामे पात्रे यां चक्रुर्मिश्रधान्यके ।
आमे मांसे कृत्यां यां चक्रुः पुनः प्रतिहरामि ताम् ॥१॥

यां ते चक्रुः कृकवाका वजे वा यां कुरीरिणि ।
अव्यां ते कृत्यां यां चक्रुः पुनः प्रतिहरामि ताम् ॥२॥

यां ते चक्रुरेकशफे पशूनामुभयादति ।
गर्दभे कृत्यां यां चक्रुः पुनः प्रतिहरामि ताम् ॥३॥

यां ते चक्रुरमूलायां वलगं वा नराच्याम् ।
क्षेत्रे ते कृत्यां यां चक्रुः पुनः प्रतिहरामि ताम् ॥ ४ ॥

यां ते चक्रुगार्हिपत्ये पूर्वाग्नावुत दुश्चितः ।
शालायां कृत्यां यां चक्रुः पुनः प्रतिहरामि ताम् ॥५॥

यां ते चक्रुः सभायां यां चक्रुरधिदेवते ।
अक्षेषु कृत्यां यां चक्रुः पुनः प्रतिहरामि ताम् ॥६॥

यां ते चक्रुः सेनायां यां चक्रुरिष्वायुधे ।
दुन्दुभौ कृत्यां यां चक्रुः पुनः प्रतिहरामि ताम् ॥७॥

यां ते कृत्यां कूपे वदधुः श्मशाने वा निचनुः ।
सद्यनि कृत्यां यां चक्रुः पुनः प्रतिहरामि ताम् ॥८॥

यां ते चक्रुः पुरुषस्यास्थे अग्नौ संकसुके च याम् ।
म्रोकं निर्दाहं क्रव्यादं पुनः प्रतिहरामि ताम् ॥९॥

अपथैनाज भारैणां तां पथेतः प्रहिण्मसि ।
अधीरो मर्या धीरेभ्यः संजभाराचित्या ॥१०॥

यश्चकार न शशाक कर्तुं शश्रे पादमङ्गुरिम् ।
चकार भद्रस्मभ्यमभगो भगवद्भ्यः ॥११॥

कृत्याकृतं वलगिनं मूलिनं शपथेऽप्यययम् ।
इन्द्रस्तं हन्तुमहता वधेनाग्निर्विध्यत्वस्तया ॥१२॥

Comments

Popular posts from this blog

श्री काली जगन्मंगल कवचम्

(श्री काली जगन्मंगल कवचम्) ।।श्री दक्षिणाकाली प्रसन्नोस्तु।। . श्री काली जगन्मंगल कवचम् श्री भैरव्युवाच काली पूजा श्रुता नाथ भावाश्च विविधाः प्रभो । इदानीं श्रोतु मिच्छामि कवचं पूर्व सूचितम् ॥ त्वमेव शरणं नाथ त्राहि माम् दुःख संकटात् । सर्व दुःख प्रशमनं सर्व पाप प्रणाशनम् ॥ सर्व सिद्धि प्रदं पुण्यं कवचं परमाद्भुतम् । अतो वै श्रोतुमिच्छामि वद मे करुणानिधे ॥ भैरवउवाच रहस्यं श्रृणु वक्ष्यामि भैरवि प्राण वल्लभे । श्री जगन्मङ्गलं नाम कवचं मंत्र विग्रहम् ॥ पाठयित्वा धारयित्वा च त्रौलोक्यं मोहयेत्क्षणात् । नारायणोऽपि यद्धृत्वा नारी भूत्वा महेश्वरम् ॥ योगिनं क्षोभमनयत् यद्धृत्वा च रघूत्तमः। वर तृप्तो जघानैव रावणादि निशाचरान् ॥ यस्य प्रसादादीशोऽहं ्रैलोक्य विजयी प्रभुः । धनाधिपः कुबेरोऽपि सुरेशोऽभूच्छचीपतिः । एवं हि सकला देवाः सर्वसिद्धिश्वराः प्रिये ॥ विनियोग:- ॐ श्री जगन्मङ्गलस्यास्य कवचस्य ऋषिः शिवः । छ्न्दोऽनुष्टुप् देवता च कालिका दक्षिणेरिता ॥ जगतां मोहने दुष्ट विजये भुक्तिमुक्तिषु । योषिदाकर्षणे चैव विनियोगः प्रकीर्तितः ॥ ऋष्यादि-न्यास:- श्री शिव ऋषये नमःशि...

कुलदेवी एवं कुलदेवता आकर्षण मंत्र

ॐ नमो कामद काली कामक्षा देवी तेरे सुमरे बेडा पार, पढि पढि मारुं गिन गिन फूल, जाहि बुलाई सोई आये, हांक मार हनुमान वीर पकड ला जल्दी, दुहाई तोय सीता सती, अंजनी माता की, मेरा मंत्र सांचा पिण्ड काचा, फुरो मंत्र ईश्वरो वाचा, इस मंत्र का ५१ दिन तक जाप होता है बाबा लंगोटी वाले के मंदिर मे बाबा के सभी यम नियम का पालन होता है ५१ दिन पूरे होने पर 41 वे दिन दशांश हवन एव विशेष पुजा होती है जिसमें आपको कोई आदमी दिखाई दे सकता है ओर कोई ध्वनि भी सुनाई दे सकती है या स्वप्न भी आ सकता है 41 दिन मंत्र जप करने के बाद आप इसका प्रयोग किसी ओर के लिये भी कर सकते है किसी का दोष जानने के लिये.. मेल करें 

सर्व यन्त्र मन्त्र तंत्रोत्कीलन पाठ विधी

सर्व यन्त्र मन्त्र तंत्रोत्कीलन पर्वतीउवाच: देवेश परमानंद भक्तानांभयप्रद,आगमा निगमसचैव बीजं बीजोदयस्था।।१।। समुदायेंन बीजानां मंत्रो मंत्रस्य संहिता। ऋशिछ्दादिकम भेदो वैदिकं यामलादिकम।।२।। धर्मोअधर्मस्था ज्ञानं विज्ञानं च विकल्पनम। निर्विकल्प विभागेनं तथा छठकर्म सिद्धये।३।। भुक्ति मुक्ति प्रकारश्च सर्व प्राप्तं प्रसादत:। कीलणं सार्वमंत्रनां शंसयद ह्रदये वच :।।४।। इति श्रुत्वा शिवानाथ: पर्वत्या वचनम शुभम। उवाच परया प्रीत्या मंत्रोतकील्कन शिवाम।।५।। शिवोवाच। वरानने ही सर्वस्य व्यक्ताव्यक्ततस्य वस्तुनः। साक्षीभूय त्वमेवासि जगतस्तु मनोस्थता।।६।। त्वया पृष्ठटँ वरारोहे तद्व्यामुत्कीलनम। उद्दीपनम ही मन्त्रस्य सर्वस्योत्कीलन भवेत।७।। पूरा तव मया भद्रे स्मकर्षण वश्यजा। मंत्रणा कीलिता सिद्धि: शर्वे ते सप्तकोटिय:।।८।। तवानुग्रह प्रीतत्वातसिद्धिस्तेषां फलप्रदा। येनोपायेन भवति तं स्तोत्रं कथ्यामहम।।९।। श्रुणु भद्रेअत्र सतत मवाभ्याखिलं जगत। तस्य सिद्धिभवेतिष्ठ मया येषां प्रभावकम।।१०।। अन्नं पान्नं हि सौभाग्यं दत्तं तुभ्यं मया शिवे। संजीवन्नं च मन्त्रनां तथा दत्यूं परनर्ध्रुवं।।११।। यस्य स्मरण मात्रे...