॥ #कृत्यानाशक_श्रीबगला_सूक्तम् ॥
(अथर्ववेद पंचमकाण्डे षष्टोऽनुवाक)
अथ सूक्तम:-
यां ते चक्रुरामे पात्रे यां चक्रुर्मिश्रधान्यके ।
आमे मांसे कृत्यां यां चक्रुः पुनः प्रतिहरामि ताम् ॥१॥
यां ते चक्रुः कृकवाका वजे वा यां कुरीरिणि ।
अव्यां ते कृत्यां यां चक्रुः पुनः प्रतिहरामि ताम् ॥२॥
यां ते चक्रुरेकशफे पशूनामुभयादति ।
गर्दभे कृत्यां यां चक्रुः पुनः प्रतिहरामि ताम् ॥३॥
यां ते चक्रुरमूलायां वलगं वा नराच्याम् ।
क्षेत्रे ते कृत्यां यां चक्रुः पुनः प्रतिहरामि ताम् ॥ ४ ॥
यां ते चक्रुगार्हिपत्ये पूर्वाग्नावुत दुश्चितः ।
शालायां कृत्यां यां चक्रुः पुनः प्रतिहरामि ताम् ॥५॥
यां ते चक्रुः सभायां यां चक्रुरधिदेवते ।
अक्षेषु कृत्यां यां चक्रुः पुनः प्रतिहरामि ताम् ॥६॥
यां ते चक्रुः सेनायां यां चक्रुरिष्वायुधे ।
दुन्दुभौ कृत्यां यां चक्रुः पुनः प्रतिहरामि ताम् ॥७॥
यां ते कृत्यां कूपे वदधुः श्मशाने वा निचनुः ।
सद्यनि कृत्यां यां चक्रुः पुनः प्रतिहरामि ताम् ॥८॥
यां ते चक्रुः पुरुषस्यास्थे अग्नौ संकसुके च याम् ।
म्रोकं निर्दाहं क्रव्यादं पुनः प्रतिहरामि ताम् ॥९॥
अपथैनाज भारैणां तां पथेतः प्रहिण्मसि ।
अधीरो मर्या धीरेभ्यः संजभाराचित्या ॥१०॥
यश्चकार न शशाक कर्तुं शश्रे पादमङ्गुरिम् ।
चकार भद्रस्मभ्यमभगो भगवद्भ्यः ॥११॥
कृत्याकृतं वलगिनं मूलिनं शपथेऽप्यययम् ।
Comments