लक्ष्मीद्वादशनाम स्तोत्र
श्रीदेवी प्रथमम् नाम द्वितीयममृतोद्भवा । त्रितीयम् कमला प्रोक्ता चतुर्थम् सुरसुंदरी ॥
पंचमम् देवगर्भा च षष्ठं च मधुसूदनी । सप्तमम् तु वरारोहा अष्टमम् हरिवल्लभा ॥
नवमम् शार्ञ्गणी प्रोक्ता दशमम् देवदेवता । एकादशम् तु लक्ष्मी : स्यात द्वादशम् भुवनेश्वरी ॥
एतद् द्वादश नामानि त्रिसंध्यम् य: पठेन्नर: । आयुर्ारोग्यमैश्वर्यमतिपुण्य फलप्रदम् ॥
द्विमासम सरवकार्याणि षणमासाद्राज्यमेव च । संवत्सरम् तु पूजाया: श्रीलक्ष्म्या: पुज्य एव च ॥
लक्ष्मीम क्षीरसमुद्रराजतनयाम् श्रीरंगधामेश्वर
ीम् । दासिभूतसमस्तदेववनिताम् लोकैकदीपांकुराम् ॥
श्रीमन्मंदकटाक्षलब्धविभवब्रह्मेंद्रगंगाधराम् । ताम् त्रैलोक्यकुटुम्बिनीम सरसिजाम् वंदे मुकुंदप्रियाम ॥
॥इति लक्ष्मीद्वादशनााम स्तोत्रम् ॥
Comments